मया अनुभूता संवादशाला


हरि:ॐ l नमो नमः l
भो मित्राणि कथं सन्ति सर्वे ? सर्वे सम्यक् भविष्यन्ति इति अहं चिन्तयामि lअहं गत'मेमासे देहलीसंवादशालां गतवान् आसम् l तंत्र अहं यत् अनुभूतवान् तस्य कथनम् अहं अधुना करोति l सर्वस्मात्पूर्वं अहं तंत्र किमर्थं गतवान् ? तंत्र गमनस्य कारणं किम् ? तं कारणं अहं वदामि l 
अहं आलंद्यां आगत्य जोगमहाराजवारकरीशिक्षणसंस्थायां प्रवेशं कृतवान् l तत्र प्रथमेवर्षे "भांडारकर"नाम्न:संस्कृतव्याकरणस्य पुस्तकं पठितवान् l तेन व्याकरणपठणेन मम मनसि संस्कृतविषये रुचि: उत्पन्ना जाता l अनन्तरं यदा अहं संस्थायां द्वितीये वर्षे पठन् आसम् , तदा पुणेनगरे विद्यमाने टिळकमहाराष्ट्रविद्यापीठे बी.ए.संस्कृतअभ्यासक्रमाय प्रवेशं कृतवान् l तत्र त्रय:वर्षात् पदवीं प्राप्तवान् l पश्चात् मुंबई विद्यापीठस्य चेंबूरसर्वंकषशिक्षणशास्त्रमहाविद्यालये शिक्षाशास्त्रीं तथा बी.एड अपि पूर्णं कृतवान् lअहं संस्कृत अध्यापक अभवम् lकिन्तु सम्यकतया संस्कृतेन वक्तुं समर्थ: न आसम् lअहं संस्कृतभाषाशिक्षक: सन् अपि तां भाषां वक्तुं असमर्थ: आसम् तेन मम मनसि खेद: जायमान: आसीत् l
  मया तद्विषये चिंतनं आरब्धम् l तथा अहं देहली संवादशालाविषये किञ्चित् ज्ञातवान् l तंत्र बहुसम्यक्तया संस्कृतसंभाषणं पाठयन्ति इति अहं श्रुतवान् lअस्माकं आलन्दीत: ये छात्रा:तत्र पठनार्थं गतवन्त: आसन् ते आगमनात् अनन्तरं उत्तमतया संस्कृतेन वदन्ति स्म l एतत् सर्वं अहं पूर्वं दृष्टवान् आसम् lअत: अहं अपि निश्चयं कृतवान् यदा समय: मिलिष्यति तदा अहं अवश्यं संवादशालां गमिष्यामि lसंस्कृतसंभाषणस्य प्रशिक्षणं प्राप्स्यामि च l
    मम भाग्योदयात् गतमेमासे सहपाठीमित्रेण विशालेन सह अहं संवादशालागमनं निश्चितं कृतवान् l पुणेनगरत: देहलीपर्यंतं रेलयानेन गतवान् lतत्र संवादशालां प्राप्तवान् l संवादशालाया: स्थानविषये किञ्चित् वक्तव्यं आवश्यकम् - संवादशालानूतनादेहलीमध्ये मण्डोलीग्रामे दुर्गामंदीरपरिसरे प्रचलन् अस्ति l दुर्गामंदीरपरिसरे एक:वेदविद्यालय:अपि प्रचलन् अस्ति lदुर्गामातु: आरतीपूजा सायं प्रांत: च चलन् अस्ति lवेदघोषेण दुर्गापूजया च वातावरणं रमणीयं पवित्रा च ज्ञायते l तंत्र भोजनव्यवस्था निवासव्यवस्था च सम्यक् आसीत् lइतोऽपि शिक्षणव्यवस्था बहूत्तमा आसीत् l तत्र ये अध्यापका: आसन् ते सर्वे संस्कृतज्ञा: l धाराप्रवाहीरूपेण सस्कृतं वदन्ति स्म l विविधै: प्रकारै: पाठनं कुर्वन्ति स्म lयेन केन प्रकारेण छात्रा: उत्तमतया संस्कृतेन कथं वदेयु: इति ते सदैव चिन्तयन्ति स्म lते सर्वे अध्यापका: केवलसेवारूपेण निष्कामतया संस्कृतं पाठयन्ति l तेषां एकस्य नामोल्लेखं अहं कर्तुम् इच्छामि - रामकृष्णमहोदय: ,स मूलतः: कर्नाटकप्रांतत: अस्ति l चत्वारिञ्शत् वर्षत: महोदय: संस्कृतभारतीमध्ये पूर्णकालिकसेवाकार्यं कुर्वन् अस्ति l "अहं जेष्ठ:अस्मि अहं विद्वान् अस्मि च" इति किञ्चिदपि अभिमानं अहं तस्य मनसि न दृष्टवान् l सामानतया एव जीवति स महोदय: lये छात्रा: तंत्र पठनार्थं आगता: तै: सह एव महोदय: भोजनं कुर्वन् आसीत् lसर्वै अध्यापका:छात्रै: सह मित्रवत् आचरन्ति स्म l 
    तंत्र अस्माकं सर्वैषां छात्राणां एका विशिष्टा दिनचर्या आसीत् l प्रांत: ५:०० - जागरणम् 
५:३० त: ६:०० - योगाभ्यासम् 
६:०० त: ७:०० - स्वच्छता स्नानादिकं च
७:०० त: ८:०० - प्रात:स्मरणं च 
८:०० त: ८:४५ - अल्पाहार: 
९:०० त:१०:०० - प्रथमसत्रम्
१०:१५ त: ११:१५ - द्वितीयसत्रम् 
११:३० त: १२:३० - तृतीसत्रम् 
१२:३० त: २:१५ - माध्याह्नभोजनं विश्रान्ति: च
२:३० त: ३:०० - भाषाक्रिडा 
३:१५ त: ४:१५ - चतुर्थसत्रम्
४:१५ त: ४:४५ - चायपानं 
४:४५ त: ५:४५ - पञ्चमसत्रम्
६:०० त: ६:४५ - बौद्धिकसत्रम्
७:०० त: ८:०० - स्वाध्यायसत्रम्
८:०० त: ८:४५ - रात्रिभोजनम्
९:०० त: ९:४५ - प्रतिभादर्शनम्
१०:०० - दीपनिर्वापणम्
रात्रौ १०:०० त: प्रात: ५:३० - शयनम्
यादृशी दिनचर्या तत्र अस्माकं आसीत् l
 आदिनं अद्यतनं चलति स्म सर्वं वातावरणं संस्कृतमयं आसीत् lतेन भाषाभ्यास: सम्यक् जात: तंत्र ये पाककारीण: आसन् ते निरक्षरा: आसन्नपि उत्तमतया संस्कृतेन वदन्ति स्म l इयं सर्वा वातावरणस्य महत्ता lतत्र गमनात्पूर्वं अहं संस्कृतेन वक्तुं समर्थ: न आसम् l किन्तु अधुना अहं सम्यक्तया वक्तुं शक्नोमि l
 अधुना अहं यावत् संस्कृतेन वदन् अस्मि तस्य अपेक्षया अधिकं प्रवाहिरूपेण संस्कृतसंभाषणस्य मम अपेक्षा अस्ति l अधुना न केवलं संस्कृतं वदामि अपि तु संस्कृतेन चिंतन कुर्वन् अस्मि lतत्र गत्वा संस्कृतभारत्या:ये निष्कामकार्यकर्तार: सन्ति तेषां जीवनविषये अपि अहं ज्ञातवान् l इत: परं अहं संस्कृतकार्यं कर्तुम् इच्छामि lसंस्कृतभारत्या: कार्यकर्ता भवितुम् इच्छामि lसंवादशालया कारणेन मनसि संस्कृतविषये अधिका प्रीति: जायमाना अस्ति lअस्तु अधुना अहं अत्रैव तिष्ठामि l - संस्कृसेवक:दीपक: 
Il जयतु संस्कृतं जयतु भारतम् ll
Il जयतु जयतु संस्कृतभाषा ll
 धन्यवाद:l
भ्रमणध्वनीसंख्या: - ९६७३०६०५६९
आन्तरजालीयपत्ता - dipakshinde9673@gmail.com


टिप्पण्या

या ब्लॉगवरील लोकप्रिय पोस्ट

गोदावरी नदी ( दक्षिण गंगा ) की अवतरण कथा...

सॉक्रेटिसने सांगितलेलं सफलतेच रहस्य....