मया अनुभूता संवादशाला
हरि:ॐ l नमो नमः l भो मित्राणि कथं सन्ति सर्वे ? सर्वे सम्यक् भविष्यन्ति इति अहं चिन्तयामि lअहं गत'मेमासे देहलीसंवादशालां गतवान् आसम् l तंत्र अहं यत् अनुभूतवान् तस्य कथनम् अहं अधुना करोति l सर्वस्मात्पूर्वं अहं तंत्र किमर्थं गतवान् ? तंत्र गमनस्य कारणं किम् ? तं कारणं अहं वदामि l अहं आलंद्यां आगत्य जोगमहाराजवारकरीशिक्षणसंस्थायां प्रवेशं कृतवान् l तत्र प्रथमेवर्षे "भांडारकर"नाम्न:संस्कृतव्याकरणस्य पुस्तकं पठितवान् l तेन व्याकरणपठणेन मम मनसि संस्कृतविषये रुचि: उत्पन्ना जाता l अनन्तरं यदा अहं संस्थायां द्वितीये वर्षे पठन् आसम् , तदा पुणेनगरे विद्यमाने टिळकमहाराष्ट्रविद्यापीठे बी.ए.संस्कृतअभ्यासक्रमाय प्रवेशं कृतवान् l तत्र त्रय:वर्षात् पदवीं प्राप्तवान् l पश्चात् मुंबई विद्यापीठस्य चेंबूरसर्वंकषशिक्षणशास्त्रमहाविद्यालये शिक्षाशास्त्रीं तथा बी.एड अपि पूर्णं कृतवान् lअहं संस्कृत अध्यापक अभवम् lकिन्तु सम्यकतया संस्कृतेन वक्तुं समर्थ: न आसम् lअहं संस्कृतभाषाशिक्षक: सन् अपि तां भाषां वक्तुं असमर्थ: आसम् तेन मम मनसि खेद: जायमान: आसीत् l मया तद्विषये चिंत